|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.21. अध्यायः 021
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वर्षसहस्रान्ते परिणतादण्डाद्विनिर्गतेन गरुडेन मातृपार्श्वं विहाय चिराद्देशान्तरेष्वेव सञ्चरणम्॥ 1 ॥ कदाचनं कद्रूविनताक्ष्यां समुद्रान्ते उच्चैरश्रवसो हयस्य दर्शनम्॥ 2 ॥ कद्र्वा हयस्य वर्णं पृष्टया विनतया सर्वाङ्गश्वेतत्वकथनम्। `कद्र्वा तु नीलवालत्वकथनम्॥ 3 ॥' तथा विवदमानाभ्यां ताभ्यां स्वोक्तव्यत्यासे अन्यतरयाऽन्यतरस्या दास्यवहनरूपपणबन्धनम्॥ 4 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
विनता पुत्रशोकार्ता शापाद्भीता च भारत।
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत्॥ 13-21-1(81812)
ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे।
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली॥ 13-21-2(81813)
बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान्।
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः॥ 13-21-3(81814)
यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ।
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि॥ 13-21-4(81815)
पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति।
अरुणोऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः॥ 13-21-5(81816)
जातमात्रस्तु विहगो गरुडः पन्नगाशनः।
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः॥ 13-21-6(81817)
स तदा ववृधेऽतीव सर्वकामैः कदाऽर्चितः।
पितामहविसृष्टेन भोजनेन विशांपते॥ 13-21-7(81818)
तस्मिंश्च विहगे तत्र यथाकामं विवर्धति।
कद्रूश्च विनता चैवागच्छतां सागरं प्रति॥ 13-21-8(81819)
ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात्।
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम्॥ 13-21-9(81820)
ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत्।
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे॥ 13-21-10(81821)
विनतोवाच। 13-21-11x(6795)
एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम।
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि॥ 13-21-11(81822)
कद्रूरुवाच। 13-21-12x(6796)
सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः।
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि॥ 13-21-12(81823)
विनतोवाच। 13-21-13x(6797)
यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति।
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया॥ 13-21-13(81824)
कद्रूरुवाच। 13-21-14x(6798)
जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे।
नैकवर्णैकवर्णत्वे विनते रोचते च ते॥ 13-21-14(81825)
रोचते मे पणे राज्ञि दासीत्वेन न संशयः।
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम्'॥ ॥ 13-21-15(81826)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशोऽध्यायः॥ 21 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|